शिवसङ्कल्पसूक्तम् (शुक्ल यजुर्वेद)

शिवसङ्कल्पसूक्तम् (शुक्ल यजुर्वेद) 

षड्ऋचात्मकस्य सूक्तस्यास्य ऋषिः याज्ञवल्क्यः मनः देवता त्रिष्टुप् छन्दश्च सूक्तेस्मिन् ऋषिर्वदति यन्मनः जाग्रतः पुरुषस्य दूरमुद्गच्छति । यच्च मनः सुप्तस्य पुंसः तथैव एति यथा गतं तथैव पुनरागच्छति यच्च दूरात् गच्छति इति दूरंगमम् यच्च प्रकाशकानां श्रोत्रादीन्द्रियाणाम् एक एव ज्योतिः तादृशं मे मनः शिवसङ्कल्पः धर्मविषयकः वा भवतु अर्थात् मन्मनसि सदा धर्म एव भवतु न कदाचित् पापमित्यर्थः मनीषिणः येन मनसा कर्माणि कुर्वन्ति येन धीमन्तः विधिविधानपूर्वकं यज्ञसम्पादनं कुर्वन्ति। यच्च सर्वाषामिन्द्रियाणां मूलभूतमपूर्व पूज्यं चास्ति। अन्यच्च यन्मनः प्रज्ञासु अन्तर्ज्योतिः अमृत् चास्ति। येन विना न किंचन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु । येन मनसा इदं सर्व सर्वतो ज्ञातम् येन च मनसा यज्ञस्तायते सप्तहोतारः । अन्यच्च यस्मिन् सामानि प्रतिष्ठातानि यस्मिन् यजूंसि प्रतिष्ठातानि यथा रथनाभौ अराः प्रतिष्ठिताः भवन्ति यस्मिन् प्रजानां सर्वप्रदार्थ-विषयकं ज्ञानं निहितमस्ति यन्मनः मनुष्यान् यतस्ततः नेनीयते यथा सुसारथिः अश्वान् नेनीयते  तथैव मनः प्रवर्त्तयति सर्वत्र तथैव नियच्छति च तरान् इत्यर्थः यच्च मनः हृत्प्रतिष्ठं यच्च अजिरं – जरा रहितम  यच्च जविष्ठमतिजववदस्ति तन्मे मनः शिवसङ्कल्पमस्तु ।

 

Comments

Popular posts from this blog

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण

अर्थसंग्रहः अनुसार धर्म विवेचनम्

वेदान्त दर्शनम्