अर्थसंग्रहः अनुसार धर्म विवेचनम्

                        

 

प्रस्तावना  - 

अर्थसंग्रह इति नामकरणस्य अभिप्राय अस्ति - ‘अर्थानां मीमांसाशास्त्रप्रतिपादितानां विषयाणां संग्रहः’ मीमांसा शास्त्रे प्रतिपादित विषयाणां एकत्र संग्रह वर्तत्ते । इति दृष्टवा लौगाक्षिभास्करः ‘पूर्वमीमांसा अर्थसंग्रहः’ नामकं प्रकरणं मीमांसा सूत्रस्य उपरि लिखितम् अस्ति ।

     अस्मिन् ग्रन्थे ‘धर्म स्वरूपस्य’ विचारः जैमिनीय सिद्धान्तस्य विवेचनस्य विषयं अस्ति ।

     जैमिनीय सूत्रस्य प्रथम सूत्रम् - ‘अथातो धर्मजिज्ञासा’ अस्ति । अत्र ‘अथ’ शब्दः वेदाध्ययनानन्तर्य वचनः । ‘अतः’ शब्दो हि वेदाध्ययनस्य दृष्टार्थत्वं ब्रूते । मीमांसाशास्त्रस्य उद्देश्यः धर्मस्य व्याख्या करणीयम् अस्ति ।

कुमारिलभट्टः कथयति - ‘धर्माख्यं विषयं वक्तु मीमांसायाः प्रयोजनम् ” । अर्थात् - धर्मस्य विषये कथनम् मीमांसादर्शनस्य प्रयोजनम् अस्ति ।

धर्मः किम च तस्यः लक्षणं –

 1. लौगाक्षिभास्करस्य अनुसारं - यागादिरेव धर्मः

     लक्षणम् - वेद प्रतिपाद्यः प्रयोजवदर्थो धर्मः

2. औपदेव्याः अनुसारं - वेदेन प्रयोजनामुद्दिश्य विधीयमानोऽर्थो धर्मः । यथा - यागादि ।

3. कुमारिलभट्टस्य अनुसारं -  धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् । अर्थात् - धर्मस्य विषये कथनम् मीमांसादर्शनस्य प्रयोजनम् अस्ति ।

4.  जैमिनिकृत - चोदना लक्षणोऽर्थो धर्मः । अत्र ‘चोदना’ शब्दः सम्पूर्ण वेद वाचकः अस्ति च अन्य अर्थं ‘विधिः’ (अज्ञातार्थज्ञापको वेदभागो विधिः )अपि अस्ति ।

लौगाक्षिभास्कस्य मते - ‘यागादिरेव धर्मः’ अर्थात् यागादि क्रियाणां सम्पादनं करणीयमेव धर्मः अस्ति । अत्र ‘एव’ शब्देन चैत्यवन्दनायाः निषेधं च ‘आदि’ शब्देन दान-होम इत्यादि क्रियाणां तथा द्रव्यः, गुणः आदि पदार्थाणां ग्रहनं क्रियते । अतः ज्ञातम् अभवत् ‘यागादिरेव धर्मः’ ।

     धर्मस्य लक्षण विषये लौगाक्षिभास्करः कथयति - ‘वेद प्रतिपाद्यः प्रयोजनवदर्थो धर्मः’ । अर्थात् वेदे प्रतिपादित, प्रयोजनयुक्त च अर्थयुक्त विषयः एव धर्मः अस्ति । निर्दुष्ट लक्षणं त्रयः दोषात् रहितं भवति । ते त्रयः दोषाः सन्ति - अव्याप्ति, अतिव्याप्ति तथा असम्भव ।   

     अर्थसंग्रहकारः धर्मस्य विषये यः लक्षणं ददाति सः लक्षणं त्रयः दोषात् रहितम् अस्ति ।

धर्मस्य लक्षणे त्रयः विशेषता इदम् सन्ति -

1. वेद प्रतिपाद्यो धर्मः ।

2. प्रयोजनवान धर्मः ।

3. अर्थो धर्मः ।

एतेषां विवेचनम् इदम् अस्ति -

1.   वेदप्रतिपाद्यो धर्मः - अर्थात् धर्मः सः अस्ति यः वेदेन प्रतिपादितं क्रियते । यथा - स्वर्गकामः यजेत् । एतत् वाक्यं यज्ञः कृते अस्ति च वेदे उक्तमस्ति । लक्षणे ‘वेदप्रतिपाद्य’ पदेन भोजनादि मध्ये धर्मलक्षणस्य अतिव्याप्ति न भवति । यद्यपि भोजने तप्त्यादिरूपं प्रयोजनयुक्तः अस्ति च इष्टम् अपि अस्ति । परम च सः वेद प्रतिपाद्य अर्थात् विधेय रूपे वेदस्य प्रतिपादनं न भवितुं कारणात् ‘धर्मः’ न उच्यते इति शङ्का अस्ति -

तर्हि शङ्का विषये कथयते -

     अष्टौ ग्रासा मुनेर्भक्ष्याः, षोडशारण्य वासिनाम् ।

     द्वात्रिशन्तु गृहस्थस्य यथेष्ट ब्रह्मचारिणाम् ॥

अतः शङ्कायाः समाधानस्य विषये कथयते - इदं न अस्ति चूंकि उपर्युक्त स्मतिवचं सामान्यतया भोजनपरकः न भूत्वा ग्रासनियमपरकः भवति ।

2.   प्रयोजनवान् धर्मः -  प्रयोजनवान् धर्मेण धर्मस्य प्रयोजनवत्ता सिद्धं भवति । अतः स्पष्टं जायते कि प्रयोजनं धर्मः न अस्ति, अपितु धर्म एव प्रयोजनयुक्तं अस्ति । यथा- स्वर्गादि धर्मस्य प्रयोजनं भवति च इष्टम् अपि सन्ति । अतः प्रयोजने धर्म लक्षणे ‘प्रयोजनवत्’ पदं सन्निविष्टं क्रियते । अतः अस्मिन् लक्षणे अतिव्याप्ति दोषः न अस्ति ।

3.    अर्थो धर्मः - इदं प्रकारेण अनर्थफलं प्रदानं करोति च यज्ञेषु धर्मलक्षणस्य अतिव्याप्तिं अवरोधने लक्षणे ‘अर्थः’ पदं दियते । अर्थात् यज्ञः वेदेन प्रतिपादितं भवति च शत्रुमारणरूपं प्रयोजनं युक्तः अपि जायते, परम् च अर्थं (इष्टं) न भवति । चूंकि यज्ञस्य अनन्तरं प्रायश्चितस्य अपि विधानं प्राप्यते च प्रायश्चिते दुःखमेव अस्ति । अतः यज्ञः केवलं सुखम् उत्पन्नं न कृत्वा दुःखम् अपि उत्पन्नं करोति । दुःख प्राप्ति कस्यापि अर्थं (इष्टं) न भवितुम् अर्हति । अतः अनर्थोत्पादक भवितुम कारणात् श्येन कर्मः धर्मः न भवितुम अर्हति ।

     अतः पुनः शङ्का जायते - नरकजन्यः कर्ममेव अनर्थं भवति ।

     अस्मिन विषये कथयते - एषाः शङ्का निर्मूलं अस्ति । चूंकि शत्रुवध निश्चित रूपेण नरकजन्यः अस्ति । यदि इदं न अस्ति तर्हि श्येन कर्मस्य अनन्तरं प्रायश्चितस्य विधानं केन कारणेन क्रियते ?

अतः अनर्थफलयुक्तं भवितुम कारणात् शत्रुवध द्वारेण नरकजन्य श्येन कर्मम् अपि ‘अनर्थमेव’ अस्ति । अतः जैमिनी महोदय अस्मिन् विषये चतुर्थ-अध्याये इष्ट साधकः च वेद-प्रतिपादित भवितुम् कारणात् सः एव धर्मः कथयति ।

     वस्तुतः श्येन कर्मणाभ्यां मानवाः रागेः प्रवृत्तं भवन्ति च वेद केवलं अभिचारिक कर्मणाम साधनस्य रूपे प्रतिपादितं करोति । ते अनिष्टजनकः भवन्ति । अतः अत्र जैमिनी महोदयस्य वाक्येन न विरोधं न मन्तव्यं ।

     इदं प्रकारेण प्रयोजनयुक्तः, वेद प्रतिपाद्यः च अर्थवान् भवितुम् कारणात् धर्मस्य लक्षणं सिद्धं भवति ।

 

 


Comments

Popular posts from this blog

वेदान्त दर्शनम्

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण