पञ्चमहायागाः

पञ्चमहायागाः

वैदिक परम्परायां पञ्चमहायज्ञानामतीवमहत्त्वपूर्णं स्थानमस्ति । प्रत्येक गृहस्थं प्रति पञ्चमहायज्ञानामनुष्ठानमतीव आवश्यकमनिवार्यं चास्ति। देवयज्ञः पि पञ्चमहायागाः

वैदिक परम्परायां पञ्चमहायज्ञानामतीवमहत्त्वपूर्णं स्थानमस्ति । प्रत्येक गृहस्थं प्रति पञ्चमहायज्ञानामनुष्ठानमतीव आवश्यकमनिवार्यं चास्ति। देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञः ब्रह्मयज्ञश्चेति समष्टिरुपेण पञ्चमहायज्ञः इत्याख्यायते ।  एतेषां पञ्चयज्ञानामनुष्ठानं प्रत्यहं गृहमेधिनां गृहस्थधर्मप्रविष्टानां मानवानात्यावश्यकं कर्तव्यमस्ति। यः पुरुषः देवानामतिथीनां भृत्यानां पितृणाम् आत्मनश्च तोषकारकान् इमान् यज्ञान् न सम्पादयति सःजीवन्नपि मृतः एव। एतेषु पंचयज्ञेषु यदग्नौ जुहोति तद् दैवयज्ञः यथा- मनुना प्रोक्तम् – होमो दैवः यत्पितृभ्यः स्वधा करोति तत् पितृयज्ञः  अथवा पितृयज्ञस्तुतर्णम् भूतेभ्यो यद् बलिर्दीयते तदैव भूतवलिः भूतयज्ञः भवति । यद् ब्राह्मणेभ्यो अन्नं ददाति अथवा अतिथीनां यः सतकारः क्रियते तद् नृयज्ञः इत्याख्यते । यत्स्वाध्यायमधीयतैकामप्यृचं यजुः साम वा तद् ब्रह्मयज्ञः यथा मनुस्मृतिकारः लिखति- अध्यापनं ब्रह्मयज्ञः पञ्चमहायज्ञविषये तैत्तियारण्यके लिखितमस्ति – यदृचो अधीते  पयसः कूल्या अस्य पितृन् स्वधा अभिवहन्ति यद्यजूंषि घृतस्य कूल्या यत्सामानि सोम एभ्यः पवते यदर्थांगिरसो मधोः कूल्या यद् ब्राह्मणान् इतिहासपुराणानि कल्पान् गाथा नाराशंसीरमेदसः कूल्यामस्य पितृन् स्वधा अभिवहन्ति।

तृयज्ञः भूतयज्ञः मनुष्ययज्ञः ब्रह्मयज्ञश्चेति समष्टिरुपेण पञ्चमहायज्ञः इत्याख्यायते ।  एतेषां पञ्चयज्ञानामनुष्ठानं प्रत्यहं गृहमेधिनां गृहस्थधर्मप्रविष्टानां मानवानात्यावश्यकं कर्तव्यमस्ति। यः पुरुषः देवानामतिथीनां भृत्यानां पितृणाम् आत्मनश्च तोषकारकान् इमान् यज्ञान् न सम्पादयति सःजीवन्नपि मृतः एव। एतेषु पंचयज्ञेषु यदग्नौ जुहोति तद् दैवयज्ञः यथा- मनुना प्रोक्तम् – होमो दैवः यत्पितृभ्यः स्वधा करोति तत् पितृयज्ञः  अथवा पितृयज्ञस्तुतर्णम् भूतेभ्यो यद् बलिर्दीयते तदैव भूतवलिः भूतयज्ञः भवति । यद् ब्राह्मणेभ्यो अन्नं ददाति अथवा अतिथीनां यः सतकारः क्रियते तद् नृयज्ञः इत्याख्यते । यत्स्वाध्यायमधीयतैकामप्यृचं यजुः साम वा तद् ब्रह्मयज्ञः यथा मनुस्मृतिकारः लिखति- अध्यापनं ब्रह्मयज्ञः पञ्चमहायज्ञविषये तैत्तियारण्यके लिखितमस्ति – यदृचो अधीते  पयसः कूल्या अस्य पितृन् स्वधा अभिवहन्ति यद्यजूंषि घृतस्य कूल्या यत्सामानि सोम एभ्यः पवते यदर्थांगिरसो मधोः कूल्या यद् ब्राह्मणान् इतिहासपुराणानि कल्पान् गाथा नाराशंसीरमेदसः कूल्यामस्य पितृन् स्वधा अभिवहन्ति।

 


Comments

Popular posts from this blog

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण

अर्थसंग्रहः अनुसार धर्म विवेचनम्

वेदान्त दर्शनम्