वाङ्मनस् – अखायनम्
वाङ्मनस्-अखायनम्
वाङ्मनस्-विषयकम्
आख्यानं शतपथ ब्राह्मणे सम्वादरुपेण निरुपतिमस्ति। एकदा वाङ्मनसोः मध्ये विवादः सञ्जातः
तदा मन उवाच । अहमेव त्वच्छ्रेयोस्मि यतः यदहं जानामि । तदेवं त्वं भणसि। यदहं न जानामि
तद् विषयं त्वं वक्तुं न शक्नोसि । एवं मेनुकरणशीला त्वं मत्तः श्रेयः कथं भविष्यसि
अर्थात् अहमेव त्वच्छ्रेयोस्मीति। एतत्छुत्वा वागुवाच अहमेव त्वच्छ्रेयस्मि यतः यद्वै
त्वं वेत्थ तदहमेव विज्ञापयामि संज्ञापयामि च ।एवं विवदमानः ते प्रजापतिं प्रति प्रश्नमेयतुः
। स प्रजापति मनसः एव अनु उवाच मन एव त्वच्छ्रेयो मनसः अनुवर्त्त त्वमेवासि। अनुगमनकर्ता
तु लघु पापीयान् एव भवति । एवं प्रजापतेर्मुखात् प्रतिकूलं निर्णय श्रूत्वा सा श्रूत्वा
उद्विग्ना वाणी गर्भं त्यक्तवती प्रजापतिमुवाच अहं तुभ्यं हविर्द्रव्यनेत्री न भविष्ययामि
। अपितु ते अहव्यवाट् एव भूयासम् यतः त्वया अहं निन्दिता विनिपातितास्मि तस्मात् यत्किञ्च
प्राजापत्यं यज्ञे क्रियते तद् उपांशु एव क्रियते
भगवत्याः वाग्देव्याः स एव गलितः पतितः गर्भः अत्रिः अभूत् । अत एव तस्मात् कालाद्
आरभ्य अद्यावधि पर्यन्तं गलितगर्भा रजस्वला स्त्री आत्रेयी इति उच्यते।
Comments
Post a Comment
Thanks for comment