वेदकाल

     वेदकाल निर्धारणम् 

श्रीलाटूसिंहगौतमस्य मतानुसारेण –  ४०३२०००(4,32,000) वर्षपूर्वम्

श्रीलोकमान्यतिलकस्य मतानुसारेण – ६०००(6000)ईशवीयवर्षपूर्वत:/१०००(1000) ईशवीयवर्षपूर्वम्

श्रीबालकृष्णदीक्षितस्य मतानुसारेण – ३५००(3500) ईशवीयवर्षपूर्वम्

श्रीभण्डारकर-पाण्डुरङ्ग महोदयस्य मतानुसारेण – ३०००(3000) ईशवीयवर्षपूर्वम्

श्रीमैक्समूलरमहोदयस्य १२०० (1200) ईशवीयवर्षपूर्वत:/१००० (1000) ईशवीयवर्षपूर्वम्

श्री जैकोवीमहोदयस्य मतानुसारेण -६५०० (6400) ईशवीयवर्षपूर्वम्

श्री विंटरनित्सममहोदयस्य मतानुसारेण – २५००-२००० (2500-2000) ईशवीयवर्षपूर्वम्

श्री ए.मेक्डोनलमहोदयस्य मतानुसारेण – १००० (1000)  ईशवीयवर्षपूर्वत: /६०० (600) ईशवीयवर्षपूर्वम्

 

भारतीय विदुषां मतानि –

                        वेद मन्त्रेषु ब्राह्मण ग्रन्थेषु च विभिन्नेषु स्थलेषु ऋतुसूचकानि नक्षत्र निर्देशकानि च वर्णनान्युपलभ्यन्ते । भारतीयैविद्वत्भितेषां ज्योतिषविषयकतथ्यानामुपयोगो अपि वैदिकवाङ्मय कालनिर्धारणे विहितप्रमुखाणां भारतीय विदुषां तानि यथा –

१ श्रीबालकृष्णदीक्षितस्य मतम् –

महाराष्ट्रप्रदेशीयसुप्रसिद्धज्योतिर्विज्ञानविदुषा श्रीमता शङ्कर श्रीवालकृष्णदीक्षित महाभागेन शतपथब्राह्मणस्य निम्नाकिन्त वर्णनानुसारम् शतपथव्राह्मणरचनाकालो निर्धारित। तथा च – एकम् द्वे त्रिणि चत्वारि वा अन्यानि नक्षत्राणि अथैता एव भूयिष्ठा यत् कृतिकास्तद् भूमानमेव एतदुपैति तस्मात् कृतिका स्वदधीत कृतिका नक्षत्रस्य या स्थितिरत्र वर्णितासा स्थितिकाल गणनानुसारेण ३५०० (3500) ईशवीयवर्षपूर्वम् निर्धारिता भवति । तस्माद् स एव वेदरचना काल

२ श्रीलोकमान्यतिलकस्य मतम् –

श्रीलोकमान्यवालगङ्गाधरतिलकमहाभागो वेदस्य कानिचित् प्रकरणानि समाश्रित्य इदं साधयितुमियेष यत् वसन्तसम्पातो यदा मृगाशिरस्यासीत्तदैव वेदमन्त्राणाम् रचना जाताअत्र अयमभिप्रायोऽस्ति – चान्द्र–सौर-नाक्षत्र-सायन भेदेन वर्षश्चतुर्विधोर्भवति । द्वादशानां अमावास्यानां पूर्णिमाणां चैकश्चान्द्रवर्षो भवति । सूर्योदयादन्यस्मिन् दिने सूर्योदयात् प्राक्तनकालएकसौरदिवसउच्यते ।

१ मृगशिरकाल४००(400) – ईशवीयपूर्वत: / २५०० (2500) ईशवीयपूर्वम्

अत सिद्धयति यत् श्रीतिलकमहोदया ओरायन ”इत्यभिधेये स्वग्रन्थे ६०००  (6000) ईशवीयवर्षेभ्यपूर्व वेदाविर्भावकालम् स्वीकुर्वन्ति । किन्तु स्वकीये  “उत्तरध्रुवनिवास” इत्यभिधेये ग्रन्थे ते वेदान् दशसहस्रेशवीयवर्षप्राचीनान् (१००० B.C.) साध्यन्ति ।

वैदेशिकविदुषां मतानि –

मैक्समूलरस्य मतम् –

वेदानां कालनिर्धारणस्य सर्वप्रथमप्रयासश्रीमैक्समूलरमहोदयस्य मतानुसारेण छन्दकालप्राचीनतमकाल आसीत् । अस्मिन्नेव समये ऋषिभि वेदमन्त्राणां रचना विहिता आसीत् । ऋग्वेदस्य कालोयमेव आसीत् । एवम् श्री मैक्समूलरमहोदयस्य मतानुसारेण १२०० (1200) .पू.- १००० ई.पूर्वम् यावत् एव वेदरचनाकालस्वीक्रियते । स्वकीयमिदं मतमनुमानाश्रितं मत्वा श्री मैक्समूलरमहोदयकथयति यत् वेदानां रचनाकालनिर्धारणमतिदुष्करं किन्तु वेदाविश्वसाहित्यस्य आदिं ग्रन्थासंसारे च ज्ञानाभ्युदयो वेदेभ्यएव जात इति च निश्चित रुपेण वक्तुं शक्यत इति ।

श्रीमैक्समूलरमहोदयस्य मतम् कोलव्रुक-विल्सन-कीथ-मेक्डोनल-व्लूम-फील्डप्रभृतिभियूरोपदेशीयैविद्वद्भिप्रथमवैज्ञानिक मत्वेन स्वीकृतम् । किन्तु श्रीमैक्समूलरमहोदयस्य वेदरचनाकालविषयकमभिमतम् त्रुटिपूर्णमस्ति । एतद् कालविभाजनं प्रमाणाधारितम् नास्ति,पुनश्च छन्दकाल – मन्त्रकालादीनां विभाजनाय शतद्वयवर्षाणां निर्धारणं स्वर्था कल्पितमेव वर्त्तर्त्तते । तथा टर्की देशे सन् १९०७ (1907) तमे ईशवीये श्री ह्युगो विङ्कलरमहोदयेन एकशिलालेखप्राप्तआसीत्१४०० (1400) ईशवीयवर्षप्राक्तनआसीत् । तत्र वैदिकसंस्कृतेवैदिकदेवानां च सङ्केत उपलव्धा आसन् । अत एव श्रीमैक्समूलरमहोदयस्य मतम् खण्डितम् जातम् ।

श्रीबिन्टरनित्सस्य मतम् –

सुप्रसिद्धेन प्राच्यविद्या विशारदेन जर्मनीदेशीयेन अन्यतमेन विदुषा श्रीबिन्टरनित्सम महोदयेन वेदानां वैदिकवाङ्मयस्य च रचनाकाल२५०० -२००० (2500-2000) पूर्वम् यावत् स्वीकृतो वर्त्तते, किन्तु सस्वयमेव स्व मतम् प्रति सन्दिग्धो अस्तियतो हि वैदिकी भाषा समुपलव्धानां षष्ठेशवीयपूर्वशतकीयशिलालेखानां प्राचीनफारसीभाषया तुल्या प्रतीयते ।

याकोवीमहोदयस्य मतम् –

ऐतिह्यविदा ज्योतिर्विदा च सुप्रसिद्धजर्मनीदेशीय-विदुषा एच्याकोवी महोदयेन गभीरशोधकार्यद्वारा वेदानां कालविषये स्वकीयो दृष्टिकोणसमुपस्थापितो वर्त्तते । तेन कल्पसूत्रस्य विवाहप्रकरणे समुल्लिखितं “ध्रुव इव स्थिरा भव” इति वाक्यम् आश्रित्य स्वानुसन्धानैज्योतिर्विजानाधारेण “ध्रुव” नक्षत्रस्य च गणनया साधितम् आसीत् यद् वेदानां रचनाकाल४५०० ई,पूर्वत २५०० ई.पूर्वम् यावत् स्वीकर्तुं शक्यते ।

 

श्री ए.मेक्डोनलमहोदयस्य मतम् –

 श्रीआर्थर एण्टनी मैक्डोनल महोदय स्वकीये “हिस्ट्री आफ संस्कृत लिटरेचर” नामाभिधेये ग्रन्थे स्वीकरोति यद् वेदानां रचनायाप्रारम्भिककालनिर्णयार्थं साक्ष्यत्वेन  २०० वर्षतो अपि प्राचीनानि विविधानि पाठान्तराणि विद्यन्ते । पाठा इमे अन्येषु वेदेषु सम्मिलितासन्ति । ये ऋग्वेदात् उद्धृतेभ्यसूक्तेभ्यमन्त्रेभ्यपंक्तिभ्यश्च निर्मितासन्ति । तेषां पाठानां कालिकविवेचनेन मैक्डोनलमहोदयसूत्रकालं ५०० ई,पूर्वत२०० ईपूर्वम् यावत् स्वीकरोति एवं श्री ए.मेक्डोनल महोदयस्य मतानुसारं वेदानां रचनाकाल१००० ई. ,पूर्वत६०० ई. ,पूर्वम् यावत् स्वीकर्तुं शक्यते ।



Comments

Popular posts from this blog

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण

अर्थसंग्रहः अनुसार धर्म विवेचनम्

वेदान्त दर्शनम्