संस्कृत लेख

 शाकाहारस्य उपयोगिता 

        मनुष्यस्य सहजः स्वाभाविकश्च आहारः - शाकाहारः उच्यते। शाकाहारः इत्युक्ते यच्च नानावनस्पत्याः माध्यमेन उपलभ्यते ; यथा- अन्नम्,  शाकः, फलम्, दधि, दुग्धम् इत्यादिकम् । जलम् अस्माकम् अपरिहार्यं पेयम् । एतादृशः आहारः  सात्त्विकाहारः आख्यायते ।
        वैज्ञानिकैरपि मांसाहारो मनुष्यजीवनानुकूलो हितकारी वा नैव इति नानागवेषणामाध्यमेन प्रमाणीकृतं वर्तते । अस्मत्पूर्वजैः ऋषिमहर्षिभिरपि मांसाहारः सर्वथा परित्यक्तः आसीत् । सात्त्विकाहारसेवनं  मनुष्यस्य अत्मसाधनायाः प्रथमं सोपानम् इति तैः प्रतिपादितमासीत् । आहारानुगुणं स्वभावः, स्वभावानुगुणञ्च कर्मसाधना भवति मनुष्यस्य, पुनश्च कर्मानुगुणं शुभाशुभफलं भोक्तव्यं भवेत् इत्ययं सुदृढो नियमः । अतः मानवैः आदौ स्वस्य आहारो विचारणीयो भवेत् ; साकाहारः सर्वदा सुखकरः, सात्त्विकगुणबर्धको भवति ।
        मनुष्यः प्रकृततः अहिंसकः प्राणी, साकाहारी च । तस्य शरीररचना, दन्तानाम् आकृतिः, विवेकलक्षणम् इत्यादिकं तदेव सूचयदस्ति । विवेकशीलः सन् मनुष्यः इतरान् वराकान् पशून् हत्वा भक्षयति इति तु तस्य अतीव निकृष्टतायाः परिचायकम्, अतः तस्मिन् पशुत्वभावस्य आगमनमपि सहजं स्वाभविकञ्च  । परन्तु मनुष्यत्वम् अन्यविधमेव, इतरेषां सर्वेषां प्राणिनां संरक्षणम्, दयार्द्रभावः, प्रेमदृष्टिः चेत्येव । संसारचक्रे मनुष्यजन्म अन्तिमम्, ईश्वरप्राप्तेः द्वारञ्च इदम् । अतः इतः स्खलनता न सामान्या क्षतिः । 
        यावत् शाकाहारो न सेव्येत तावत् मनुष्यत्वमपि दुर्लभमेव । मांसाहारः सर्वथा परित्यक्तव्यः चेत् शारीरिकम्, मानसिकम्, बौधिकम् इत्यादिकं सर्वविधं स्वास्थ्यं मनुष्यजीवने सुलभं भवेत् । अतः सर्वदा शाकाहारः सात्विकाहारश्च एव मनुष्यस्य प्रगत्यै प्रधानाहारः कथ्यते । 
https://gauravread168259164.wordpress.com - site link

Comments

Popular posts from this blog

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण

अर्थसंग्रहः अनुसार धर्म विवेचनम्

वेदान्त दर्शनम्