वेदान्त दर्शनम्







                                                         वेदान्त दर्शनम्


   
वेदान्त दर्शनम् = महर्षि बादरायणः
वेदान्त सार = सदानन्दयोगिन्द्रः


वेदान्त सार लक्षणानि

वेदान्तः-वेदान्तो नामोपनिषत्प्रमाणं तदुपकारिणि शारीरिकसूत्रादीनि च।

अनुबन्धः-तत्रानुबन्धो नामाधिकारिविषयसम्बन्धप्रयोजनानि।

अधिकारी:-अधिकारी तू विधिवत् अधीतवेदवेदाङ्गत्वेन आपाततः
अधिगताखिलवेदार्थः अस्मिन जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुर:सरं
नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्त-
निर्मलस्वान्तः साधनचतुष्टयसम्पन्नः प्रमाता।

काम्यानि:-काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि।
निषिद्धानिः-निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहननादीनि।
नित्यानिः-नित्यानि अकरणे प्रत्यवायसाधनानि सन्ध्यावन्दादीनि।
नैमित्तिकानि:-नैमित्तिकानि पुत्रजन्माद्यनुबन्धीनि जातेष्ट्यादीनि।
प्रायश्चित्तानिः-प्रायश्चित्तानि पापक्षयसाधनानि चान्द्रायणादीनि।
उपासनानि: – सगुणब हमविषयमान सव्यापार रूपाणि
शाण्डिल्यविद्यादीनि।

साधनचतुष्टयम्-
शमः-शमः तावत् श्रवणादिव्यतिरिक्तविषयेभ्यो मनसो निग्रहः।
दमः-दमो बाह्येन्द्रियाणां तद्वयतिरिक्तविषयेभ्यो निवर्तनम्।
उपरतिः-निवर्त्तितानाम् एतेषां तदव्यतिरिक्तविषेभ्य उपरमणम् उपरतिः
         अथवा विहितानां कर्मणां विधिना परित्यागः।।
तितिक्षा:-तितिक्षा शीतोष्णादि-द्वन्द्वसहिष्णुता।
समाधानम्:-निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये च समाधिः समाधानम्।
श्रद्धाः-गुरुपदिष्टवेदान्तवाक्येषु विश्वासः श्रद्धा।
मुमुक्षुत्वम्:-मुमुक्षुत्वं मोक्षेच्छा।
विषयः-विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयं तत्रैव वेदान्तानां
तात्पर्यात्।
सम्बन्धः-सम्बन्धस्तु तदैक्यप्रमेयस्य तत् प्रतिपादकोपनिषत्प्रमाणस्य
च बोध्यबोधकभावः।
प्रयोजनम्:-प्रयोजनं तु तदै क्यप्र मे यगताज्ञाननिवृत्तिः
स्वरूपानन्दावाप्तिश्च ‘तरति शोकमात्मवित्’ इत्यादिश्रुतेः ‘ब्रह्मविद् ब्रह्मैव
भवति’ इत्यादिश्रुतेश्च।

अध्यारोप:-असर्पभूतायां रज्जो सारोपवत् अवस्तुनि वस्तु आरोपः। अध्यारोपः।
वस्तुः-वस्तु सच्चिदानन्दानन्ताद्वयं ब्रह्म ।
अवस्तु:-अज्ञानादिसकलजडसमूहोऽवस्तु।

अज्ञानम्:-अज्ञानं तु सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि
भावरूपं यत्किञ्चिदिति।


ईश्वरप्राज्ञयो:- स्वात्मानदानुभवः तदानीम् एतौ ईश्वरप्राज्ञौ
चैतन्यप्रदीप्ताभिः अतिसूक्ष्माभिः अज्ञानवृत्तिभिः आनन्दम् अनुभवतः
‘आनन्दभुक चेतोमुखः प्राजः’ इतिश्रुतेः, सुखम् अहम् अस्वाप्सु न किञ्चित्
अवेदिषम् इति उत्थितस्य परामर्शोपपत्तेश्च । अनयोः समष्टिव्यष्ट्योः वनवृक्षयोः
इव जलाशयजलयोः इव वा अभेदः। एतत् उपहितयोः ईश्वरप्राज्ञयोः अपि
वनवृक्षावच्छिन्नाकाशयो: इव जलाशयजलगतप्रतिबिम्बाकाशयो: इव वा अभेदः
‘एष सर्वेश्वरः’ इत्यादिश्रुतेः।


तुरीयचैतन्यम्:-वनवृक्षतदवच्छिन्न-आकाशयोः जलाशयजलगत्
प्रतिबिम्बाकाशयोः वा आधार भूत-अनु पहित-आकाशवदनयो:।
अज्ञानतदुपहितचैतन्ययो: आधरभूतं यत् अनुपहितं चैतन्यं तत् तुरीयम् इत्युच्यते
“शिवमद्वैतं चतुर्थं मन्यन्ते” इत्यादिश्रुतेः ।


आवरणशक्ति:-आवरणशक्तिः तावत् अल्पः अपि मेघः
अनेकयोजनाय तमादित्यमण्डलम् अवलोकयितृ-नयनपथपिधायकतया यथा।
आच्छादयति इव तथा ज्ञानं परिच्छिन्नम् अपि आत्मानपरिच्छिनम् असंसारिणम्
अवलोकयितृ-बुद्धिपिधायकतया आच्छादयति इव तादृशं सामर्थयम्।।

विक्षेपशक्ति:-विक्षेपशक्तिस्तु यथा रज्वज्ञानं स्वावृतरज्जौ स्वशक्त्या
सादिकम् उद्भावयति, एवमज्ञानमपि स्वावृतात्मनि विक्षेपशक्त्या आकाशा-
दिप्रपञ्चम् उद्भावयति तादृशं सामयम्।


सूक्ष्मशरीरोत्पत्तिविचार : - सूक्ष्मशरीराणि सप्तदश अवयवानि लिङ्गशरीराणि । अवयवा: तु ज्ञानेन्द्रिय-
पञ्चकं बुद्धिमनसि कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति । ज्ञानेन्द्रियाणि श्रोत्र-
त्वक्-चक्षुर्जिह्वा-प्राण-आख्यानि। एतानि आकाशादीनां सात्त्विक-अंशेभ्यो
व्यस्तेभ्य: पृथक्-पृथक् क्रमेण उत्पद्यन्ते।

बुद्धिः-बुद्धिर्ज्ञाम निश्चयात्मिकान्त:करणवृत्तिः ।
मन:-मनो नाम सङ्कल्पविकल्पात्मिका अन्त:करणवृत्तिः।


विज्ञानमयकोश:-इयं बुद्धिज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो
भवति। अयं कर्त्तत्व-भोक्तृत्व-सुखित्व-दुःखित्वादि-अभिमानत्वेन-
इहलोकपरगामी व्यावहारिको जीव इत्युच्यते।
मनोमयकोश:-मनस्तु ज्ञानेन्द्रियैः सहितं सत् मनोमयकोशो भवति |

कर्मेन्द्रियाणि:-कर्मेन्द्रियाणि वाक्-पाणि-पाद-पायु-उपस्थाख्यानि।
एतानि पुनः आकाशादीनां रजोःऽशेभ्यो व्यस्तेभ्यः पृथक्-पृथक् क्रमेणोत्पद्यन्ते।

पञ्चवायुः - 
प्राणा:-प्राणो नाम प्रार-गमनवान् नासाग्रस्थानवर्ती । ।
अपान:-अपानो नाम अवाक्-मनवान् पायु-आदिस्थानवर्ती ।
व्यानः-व्यानो नाम विश्वग्गमनवान् अखिलशरीरवर्ती।
उदानः-उदानो नाम कण्ठस्थानीय ऊर्ध्वगमनवान् उत्क्रमणवायुः ।
समानः-समानो नाम शरीरमध्यगत-अशीतपीतान्नादि-समीकरणकरः।


प्राणमयकोश:- इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सत्
प्राणमयकोशो भवति। अस्य क्रियात्मकत्वेन रजोंऽशकार्यत्वम्।
विज्ञानमय:-एतेषु कोशेषु मध्ये विज्ञानमयो कोशो ज्ञानशक्तिमान
कर्तृरूपः।

सूक्ष्मशरीरमः-मनोमय इच्छाशक्तान् करणरूपः। प्राणमयः ।
क्रियाशक्तिमान् कार्यरूपः। योग्यत्वाद् एवम् एतेषां विभाग इति वर्णयन्ति।
एतत् कोशत्रयं मिलितं सत् सूक्ष्मशरीरम् इति उच्यते।


पञ्चीकरणम्:-स्थूलभूतानि तु पञ्चीकृतानि। पञ्चीकरणं तु
आकाशादि पञ्चक-स्वेकैकं द्विधा सं विभज्य तेषु दशसु भागेषु प्राथमिकान्
पञ्चभागान् प्रत्येकं चतुर्धा समं विभज्य तेषां चतुर्धाः भागानां स्व-स्व-द्वितीय-
अर्धभाग-परित्यागेन भागान्तरेषु संयोजनम् । तदुक्तं-


“द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः।


स्वस्वेतरद्वितीयांश: योजनात् पञ्च पञ्च ते॥”
स्थूलप्रपञ्चोत्पत्तिः-
जरायुजानिः- जरायुजानि जरायुभ्यो जातानि मनुष्यपशु-आदीनि ।
अण्डजानि:-अण्डजानि अण्डेभ्यो जातानि पक्षिपन्नगादीनि।
उदिबज्जानिः-उदिबज्जानि भूमिमुद्भिद्य जातानि कक्षवृक्षादीनि।
स्वेदजानिः-स्वेदजानि स्वेदभ्यो जातानि यूकामशकादीनि।


अपवादः-अपवादो नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववद्
वस्तुविवर्तस्य अवस्तुनः अज्ञानादेः प्रपञ्चस्य वस्तुमात्रत्वम् । तदुक्तम्-

विकार:-सतत्त्वतोऽन्यथा प्रथा विकारः।
विवर्तः-अतत्त्वतोऽन्यथा प्रथा विवर्ततः।।

‘तत् पदार्थनिरूपणम्:-आभ्याम् अध्यारोप-अपवादाभ्यां तत्-त्वा-
पदार्थशोधनम् अपि सिद्धं भवति। तथाहि। अज्ञानादिसमष्टिः एतत् उपहितं
सर्वज्ञत्वादि-विशिष्टं चैतन्यमेतत् अनुपहितं च एतत् त्रयं तप्ताय:पिण्डवत् ।
एकत्वेन अवभासमानं तत्पद्वाच्यार्थः भवति। एतत् उपाधि-उपहित-
आधारभूतम्-अनुपहितं चैतन्यं तत् पदलक्ष्यार्थो भवति।


‘त्वम्’ पदार्थनिरूपणम्:-अज्ञानादि-व्यष्टिः एतत् उपहित-
अल्पज्ञत्वादि-विशिष्टं चैतन्यमेतदनपहितं चैतत्त्रयं तप्तायः पिण्डवत् एकत्वेन
अवभासमानं त्वम्पद्वाच्यार्थः भवति। एतत् उपाधि-उपहित-आधारभूतम्-
अनुपहितं प्रत्यगानन्दं तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थो भवति ।


महावाक्यार्थः – इदं ‘तत्त्वमसि’ इति वाक्यम सम्बन्धत्रयेणाखण्डार्थ-
बोधकं भवति । सम्बन्धत्रयं नाम पदयोः सामानाधिकरण्यं पदार्थयो: विशेषण-
विशेष्यभावः प्रत्यगात्मलक्षणयोः लक्ष्यलक्षणभावश्चेति। तदुक्तम्-


“समानाधिकरणञ्च विशेषणविशेष्यता।*


यमा:-अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहा यमाः ।
नियमाः-शौच-सन्तोष-तप:स्वाध्याय-ईश्वरप्रणिधानानि नियमाः।
आसनम्:-करणचरणादि-संस्थानविशेषलक्षणानि पद्म-स्वस्तिकादीनि
आसनानि।
प्राणायामः-रेचक-पूरक-कुम्भक-लक्षणाः प्राणनिग्रहोपायाः
प्राणायामाः।
प्रत्याहारः-इन्द्रियाणां स्वस्वविषेभ्यः प्रत्याहारणं प्रत्याहारः ।
धारणा:-अद्वितीयवस्तुन्यन्तरिन्द्रियधारणं धारणा।
ध्यानम्:-अद्वितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरिन्द्रियवत्तिप्रवाहो
ध्यानम्।
विघ्नचतुष्टयनिरूपणम् :
लयः-लयः तावत् अखण्डवस्त्वनवलम्बनेन चित्तवत्तेर्निद्रा।
विक्षेपः-अखण्डवस्त्वनवलम्बनेन चित्तवृत्तेरन्यावलम्बनं विक्षेपः।
रसास्वादः-अखण्डवस्त्वनवलम्बनेनापि चित्तवत्तेः सविकल्पका-
नन्दास्वादनं रसास्वादः।
आनन्दास्वादनम्:-समाध्यारम्भसमये सविकल्पकानन्दास्वादनं वा।
निर्विकल्पकसमाधिः-अनेन विघ्नचतुष्टयेन विरहितं चित्तं
निर्वातदीपवदचलं सत् अखण्डचैतन्यमात्रमवतिष्ठते यदा तदा निर्विकल्पक:
समाधिः।
जीवन्मुक्तः – जीवन्मुक्तो नाम स्वरूपाखण्डब्रह्मज्ञानेन तत् अज्ञान
बाधनद्वारा स्वरूपाखण्डब्रह्मणि साक्षाकृते अज्ञानतत्कार्य-सञ्चितकर्म-संशय-
विपर्ययादीनामपि बाधित्वात् अखिलबन्धरहितो ब्रह्मनिष्ठः।


http://t.me/readsanskrit - Telegram link


https://gauravread168259164.wordpress.com - site link

Comments

Popular posts from this blog

संस्कृत-साहित्य की प्रमुख पुस्तकों के मङ्गलाचरण

अर्थसंग्रहः अनुसार धर्म विवेचनम्